2.13-16 चतुर्थः पाठः। पापिनोऽपि गमिष्यन्ति। निर्भयं कृष्णमन्दिरम्। कलिना सदृशः कोऽपि। अन्यधर्मांस्तिरस्कृत्य। त्वदन्विताश्च ये जीवा। येषां चित्ते वसेद्भक्तिः। न ते पश्यन्ति कीनाशं। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। द्वितीयः अध्यायः। त्रयोदशः चतुर्दशः पञ्चदशः षोडशः च श्लोकः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
कलिना सदृशः कोऽपि युगो नास्ति वरानने ।
तस्मिंस्त्वां स्थापयिष्यामि गेहे गेहे जने जने ।।2.13
अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।
तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ।।2.14
भावार्थः
हे सुमुखि! कलिना सदृशः कश्चिदपि युगः नास्ति । अस्मिन् युगे अहं त्वां गृहे गृहे अपि च प्रत्येकं मनुष्यस्य हृदये स्थापयिष्यामि । अन्यान् सर्वान् धर्मान् तिरस्कृत्य भक्तिविषयकान् महोत्सवान् पुरस्कृत्य च यदि अहं लोके तव प्रचारं कर्तुं न शक्ष्यामि तर्हि अहं भगवतः श्रीहरेः दासः नास्मि ।
भावार्थ
हे सुमुखि! कलि के समान कोई भी युग नहीं है । इस युग में मैं तुम्हें घर-घर एवं प्रत्येक मनुष्य के हृदय में स्थापित कर दूँगा । अन्य सभी धर्मों को तिरस्कृत करके और भक्तिविषयक महोत्सव को आगे करके यदि मैं लोक में तुम्हारा प्रचार नहीं किया तो मैं श्रीहरि का दास नहीं ।
त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह ।
पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ।।2.15
येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी ।
न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ।।2.16
भावार्थः
अस्मिन् कलियुगे ये जीवाः भक्तिभावेन युक्ताः भविष्यन्ति ते पापिनः सन्तोऽपि सर्वविधभयात् रहितं भगवतः श्रीकृष्णस्य लोकं गमिष्यन्ति । येषां हृदये निरन्तरं प्रेमरूपिणी भक्तिः निवासं कुर्यात् ते शुद्धान्तःकरणाः प्राणिनः स्वप्नेऽपि यमं न पश्यन्ति ।
भावार्थ
इस कलियुग में जो जीव भक्ति भाव से युक्त होंगे वे पापी होने पर भी सभी प्रकार के भयों से रहित भगवान् श्रीकृष्ण के लोक में जायेंगे । जिनके हृदय में निरन्तर प्रेमरूपिणी भक्ति निवास करती है वे शुद्ध अन्तःकरण वाले लोग स्वप्न में भी यमराज को नहीं देखते हैं ।