1.27-30 पञ्चदशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। सप्तविंशः अष्टाविंशः एकोनत्रिंशः त्रिंशः च श्लोकः। सनकादयः ऋषयः नारदं पृष्टवन्तः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
सनकादयः ऋषयः नारदं पृष्टवन्तः
इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः ।
तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् ।।1.27
भावार्थः
इदानीं भवान् तादृशपुरुष इव व्याकुलः प्रतीयते, यस्य सम्पूर्णं धनं गतं स्यात् । संसारासक्तेः रहितस्य भवतः कृते एतत् न उचितम् । अतः एतस्याः व्याकुलतायाः कारणं कथय ।
भावार्थ
इस समय आप उस पुरुष के समान व्याकुल जान पड़ते हैं, जिसका सम्पूर्ण धन लुट गया हो । संसारासक्ति से रहित आप के लिए यह उचित नहीं है । अतः इस व्याकुलता का कारण बताइये ।
नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्
अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति ।
पुष्करं च प्रयागं च काशीं गोदावरीं तथा ।।1.28
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् ।
एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ।।1.29
नापश्यं कुत्रचिच्छर्म मन:सन्तोषकारकम् ।
कलिनाधर्ममित्रेण धरेयं बाधिताधुना ।।1.30
भावार्थः
अहं तु सर्वोत्तमं लोकं मत्वा भूलोकम् आगतवान् आसम् । अपि च अत्र पुष्करं प्रयागं काशीं गोदावरीं हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धम् इत्यादिषु तीर्थक्षेत्रेषु इतस्ततः विचरणम् अकरवम्, किन्तु मया कुत्रापि मनःसन्तोषकरं सुखं न दृष्टम् । इदानीं सम्पूर्णपृथिवी अधर्मस्य मित्रेण कलिना बाधिता अस्ति ।
भावार्थ
मैं तो सर्वोत्तम लोक समझकर भूलोक में आया था । और यहाँ पुष्करतीर्थ, प्रयागतीर्थ, काशी, गोदावरी (नासिकतीर्थ) हरिक्षेत्र (हरिद्वार), कुरुक्षेत्र, श्रीरङ्ग, सेतुबन्ध इत्यादि तीर्थों में इधर-उधर विचरता रहा, किन्तु मुझे कहीं भी मन को सन्तोष देने वाला सुख नहीं दिखा । इस समय सम्पूर्ण पृथिवी अधर्म के मित्र कलि के द्वारा बाधित (पीड़ित) है ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें