शुक्रवार, 29 अप्रैल 2022

1.31-33 षोडशः पाठः। कलौ जीवाः मन्दाः मन्दमतयः मन्दभाग्याः च जाताः। गृहेषु तरुणीनां प्रभुत्वं वर्तते।

1.31-33 षोडशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। एकत्रिंशः द्वात्रिंशः त्रयस्त्रिंशः च श्लोकः। कलौ जीवाः मन्दाः मन्दमतयः मन्दभाग्याः च जाताः। गृहेषु तरुणीनां प्रभुत्वं वर्तते। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।


 कलौ जीवाः मन्दाः मन्दमतयः मन्दभाग्याः च जाताः

सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।

उदरम्भरिणो जीवा वराकाः कूटभाषिणः।।1.31

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।

पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः ।।1.32

भावार्थः

अत्र सत्यम्, तपः, शौचम्, दया, दानम् इत्यादि किमपि न वर्तते । शोचनीयाश्च ते मिथ्याभाषिणः जीवाः केवलं स्वस्य उदरपूरणे एव रताः वर्तन्ते । अलसाः मन्दबुद्धयः भाग्यहीनाश्च ते जीवाः उपद्रवग्रस्ताः सञ्जाताः । साधवः पाखण्डनिरताः वर्तन्ते । ते दर्शनेन तु विरक्ताः सन्ति किन्तु स्त्रीधनादीनां परिग्रहं कुर्वन्ति ।

भावार्थ

यहाँ सत्य, तप, शौच, दया, दान इत्यादि कुछ भी नहीं है । बेचारे झूठ बोलने वाले लोग केवल अपना पेट भरने में ही लगे रहते हैं । वे आलसी, मन्दबुद्धि तथा भाग्यहीन जीव उपद्रव ग्रस्त हो गये हैं । साधु सन्त पाखण्डी हो गये हैं, देखने में तो वे विरक्त हैं, किन्तु स्त्री धन आदि का परिग्रह करते हैं ।

गृहेषु तरुणीनां प्रभुत्वं वर्तते  

तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः ।

कन्याविक्रयिणो लोभाद्दम्पतीनां च कल्कनम् ।।1.33

भावार्थः

गृहस्थानां गृहेषु तरुणीनाम् एव प्रभुत्वं वर्तते । श्यालकाः परामर्शदातारः सञ्जाताः सन्ति । जनाः लोभकारणेन कन्यानां विक्रयणं कुर्वन्ति । पतिपत्नीनां मध्ये कलहः जायते ।

भावार्थ

गृहस्थों के घर में तरुणियों का ही प्रभुत्व है और साले ही परामर्श देने वाले हो गये हैं, लोग लोभ के कारण कन्याओं को विक्रयण करते हैं और पति पत्नी के मध्य कलह होता रहता है ।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive