मंगलवार, 20 सितंबर 2022

Shrimad Bhagwat Mahapuran। Episode 32। verse 2.9-12। कलौ मुक्तिः क्षयं प्राप्ता। उपेक्षात: कलौ मन्दौ

 2.9-12 तृतीयः पाठः। कलौ मुक्तिः क्षयं प्राप्ता। मुक्तिं ज्ञानं विरक्तिं च। स्मृता त्वयापि चात्रैव। उपेक्षात: कलौ मन्दौ। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। द्वितीयः अध्यायः। नवमः दशमः एकादशः द्वादशः च श्लोकः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।


 

मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।

कृतादिद्वापरस्यान्तं महानन्देन संस्थिता ।।2.9

कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।

त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ।।2.10

भावार्थः

त्वं मुक्तिं ज्ञानं वैराग्यं च सह कृत्वा एव भूलोकम् आगतवती, अपि च सत्ययुगतः द्वापरयुगपर्यन्तं महता आनन्देन अत्र स्थितवती । कलियुगे मुक्तिः पाखण्डरूपेण रोगेण पीडिता सञ्जाता अतः तव आज्ञां प्राप्यैव सा शीघ्रमेव पुनः वैकुण्ठलोकं गतवती ।

भावार्थ

तुम मुक्ति, ज्ञान और वैराग्य इन तीनों को साथ लेकर ही भूलोक में आयी और सत्य युग से द्वापर युग तक अतीव आनन्द पूर्वक रही । कलियुग में मुक्ति पाखण्ड रूपी रोग से पीडित हो गयी इसलिए तुम्हारी आज्ञा प्राप्त करके वह शीघ्र ही पुनः वैकुण्ठ लोक को चली गयी ।

स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।

पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ।।2.11

उपेक्षात: कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।

तथापि चिन्तां मुञ्च त्वमुपायं चिन्तयाम्यहम् ।।2.12

 

भावार्थः

त्वया स्मृतायां सत्यां मुक्तिः अपि भूलोकम् आगच्छति इतः गच्छति च । किन्तु त्वमेव ज्ञानं वैराग्यं च स्वस्य पुत्रौ कृत्वा समीपे रक्षितवती । कलियुगे उपेक्षायाः कारणेन तव एतौ पुत्रौ वृद्धौ मन्दौ च जातौ स्तः । तथापि त्वं चिन्तां परित्यज, अहम् उपायं चिन्तयामि ।

भावार्थ

तुम्हारे द्वारा स्मरण किए जाने पर मुक्ति भी भूलोक में आती है और फिर चली जाती है, किन्तु तुमने ही ज्ञान और वैराग्य को अपना पुत्र बनाकर समीप में रखा । कलियुग में उपेक्षित होने के कारण ये तुम्हारे पुत्र वृद्ध और मन्द हो गये हैं, फिर भी तुम चिन्ता का परित्याग कर दो, मैं उपाय सोचता हूँ ।

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive