2.5-8 द्वितीयः पाठः। इति निश्चित्य चिद्रूपः। बद्ध्वाञ्जलिं त्वया पृष्टं। अङ्गीकृतं त्वया तद्वै। पोषणं स्वेन रूपेण। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। द्वितीयः अध्यायः। पञ्चमः षष्ठः सप्तमः अष्टमः च श्लोकः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह ।
परमानन्दचिन्मूर्तिः सुन्दरीं कृष्णवल्लभाम् ।।2.5
बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा ।
त्वां तदाऽऽज्ञापयत्कृष्णो मद्भक्तान् पोषयेति च ।।2.6
भावार्थः
इत्येवं प्रकारेण निश्चयं कृत्वा एव परमानन्दचिन्मूर्तिः ज्ञानस्वरूपः श्रीहरिः भगवतः श्रीकृष्णस्य प्रियतमायाः सुन्दर्याः तव रचनां कृतवान् । एकदा त्वम् एव अञ्जलिं बद्ध्वा भगवन्तं पृष्टवती यत् अहं किं करवाणि? तस्मिन् समये भगवान् श्रीहरिः तुभ्यम् आज्ञां दत्तवान् यत् त्वं मम भक्तानां पोषणं कुरु ।
भावार्थ
इस तरह से निश्चय करके ही परमानन्द चिन्मूर्ति ज्ञान स्वरूप श्रीहरि ने भगवान् श्रीकृष्ण की प्रियतमा, और सुन्दर रूप वाली तुम्हारी रचना की । एक बार तुमने हाथ जोड़कर भगवान् से पूँछा कि मैं क्या करूँ? उस समय भगवान् ने तुम्हें आज्ञा दी कि तुम मेरे भक्तों का पालन पोषण करो ।
अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा ।
मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ।।2.7
पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।
भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ।।2.8भावार्थः
त्वं भगवतः श्रीहरेः ताम् आज्ञां स्वीकृतवती अतः भगवान् श्रीहरिः त्वयि अतीव प्रसन्नः अभवत् । सः तुभ्यं दासीरूपेण मुक्तिं पुत्ररूपेण एतौ ज्ञानवैराग्यौ च प्रदत्तवान् । त्वं साक्षात् निजस्वरूपेण वैकुण्ठे एव भक्तानां पोषणं करोषि, तथा च भूलोके तु त्वं तेषां भक्तानां पोषणार्थं छायास्वरूपं धारितवती असि ।
भावार्थ
तुमने भगवान् की उस आज्ञा को स्वीकार कर लिया इसलिए भगवान् श्रीहरि तुम पर बहुत प्रसन्न हो गये । उन्होंने तुम्हारी सेवा करने के लिए तुम्हें मुक्ति को दासी के रूप में और इन ज्ञान और वैराग्य को पुत्र के रूप में प्रदान किया । तुम अपने साक्षात् स्वरूप से वैकुण्ठ में ही भक्तों का पोषण करती हो, और भूलोक में तो तुमने उन भक्तों के पोषण के लिए छायारूप धारण किया है ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें