1.33-36 सप्तदशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्।
माहात्म्यम्। प्रथमः अध्यायः। चतुस्त्रिंशः पञ्चत्रिंशः षट्त्रिंशः च श्लोकः।
कलिदावानलेन साधनं भस्मतां गतम्। कलौ मानवानां प्रवृत्तिः।
श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
कलिदावानलेन साधनं भस्मतां गतम्
आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा ।
देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः ।।1.34
न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।
कलिदावानलेनाद्य साधनं भस्मतां गतम् ।।1.35
भावार्थः
महात्मनाम् आश्रमेषु तीर्थेषु नदीषु च यवनानाम् अर्थात् विधर्मिणाम् अधिकारः सञ्जातः वर्तते । ते दुष्टाः बहून् देवालयान् अपि नाशितवन्तः । अस्मिन् समये पृथिव्यां न तु कश्चित् योगी अस्ति, न सिद्धः अस्ति, न ज्ञानी अस्ति, नैव च सत्कर्मणः आचरणकर्ता एव अस्ति । कलिस्वरूपः एषः दावानलः आत्मकल्याणस्य सर्वाणि साधनानि ज्वालयित्वा भस्मीकृतवान् अस्ति ।
भावार्थ
महात्माओं के आश्रमों पर, तीर्थों और नदियों पर यवनों अर्थात् विधर्मियों का अधिकार हो गया है । उन दुष्टों ने बहुत सारे देवालय भी नष्ट कर दिये हैं । इस समय पृथिवी पर न तो कोई योगी है न सिद्ध है, न ज्ञानी है और न सत्कर्म करने वाला ही है । इस कलियुग रूपी दावानल ने आत्मकल्याण के सभी साधनों को जलाकर भस्म कर दिया है ।
कलौ मानवानां प्रवृत्तिः
अट्टशूला जनपदाः शिवशूला द्विजातयः ।
कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह ।।1.36
भावार्थः
अस्मिन् समये कलियुगे जनपदवासिनः जनाः आपणेषु अन्नस्य विक्रयणं कुर्वन्ति । ब्राह्मणाः धनं स्वीकृत्य वेदम् अध्यापयन्ति । स्त्रियः वेश्यावृत्तिद्वारा जीवननिर्वाहं कुर्वन्ति ।
भावार्थ
इस समय कलियुग में जनपद के लोग बाजारों में अन्न बेचने लगे हैं । ब्राह्मण धन लेकर वेद पढ़ाते हैं । स्त्रियां वेश्यावृत्ति से जीवन का निर्वाह करने लगी हैं ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें