1.37-40 अष्टादशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्।
माहात्म्यम्। प्रथमः अध्यायः। सप्तत्रिंशः अष्टात्रिंशः एकोनचत्वारिंशः चत्वारिंशः च श्लोकः।।
मया तत्र आश्चर्यं दृष्टम्। तत्र द्वौ अचेतनौ निःश्वसन्तौ वृद्धौ पतितौ आस्ताम्।
श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
मया तत्र आश्चर्यं दृष्टम्
एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् ।
यामुनं तटमापन्नो यत्र लीला हरेरभूत् ।।1.37
तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः ।
एका तु तरुणी तत्र निषण्णा खिन्नमानसा ।।1.38
भावार्थः
एवं प्रकारेण कलेः दोषान् पश्यन् अहं पृथिव्यां भ्रमणं कुर्वन् यमुनायाः तटं गतवान्, यत्र भगवतः श्रीहरेः अनेकाः लीलाः जाताः सन्ति । हे मुनीश्वराः! तत्र मया यत् आश्चर्यं दृष्टं तत् भवन्तः शृण्वन्तु । तत्र खिन्नमनस्का काचित् युवती स्त्री उपविष्टा आसीत् ।
भावार्थ
इस तरह से कलि के दोषों को देखते हुए और पृथिवी पर भ्रमण करते हुए मैं युमनाजी के तट पर आया, जहाँ भगवान् श्रीकृष्ण की अनेकों लीलाएं हो चुकी हैं । हे मुनिश्वरों! वहाँ पर मैं जो आश्चर्य की बात देखा उसे आप लोग सुनें । वहाँ पर खिन्न मन से एक युवती स्त्री बैठी हुई थी ।
तत्र द्वौ अचेतनौ निःश्वसन्तौ वृद्धौ पतितौ आस्ताम्
वृद्धौ द्वौ पतितौ पार्श्वे नि:श्वसन्तावचेतनौ ।
शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ।।1.39
दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।
वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः ।।1.40
भावार्थः
तस्याः समीपे अचेतन-अवस्थायां पतितौ द्वौ वृद्धौ उच्चैः उच्चैः निःश्वसन्तौ आस्ताम्, सा तरुणी स्त्री तयोः द्वयोः वृद्धयोः सेवां कुर्वती आसीत्, कदाचित् सा पतितौ तौ द्वौ वृद्धौ प्रबोधन्ती आसीत्, कदाचित् च तयोः पुरतः रुदती आसीत् । सा स्वस्य शरीरस्य रक्षकं भगवन्तं श्रीहरिं दशदिक्षु निरीक्षन्ती आसीत् । तां परितः शतशः स्त्रियः व्यजनेन वीजनं कुर्वत्यः आसन् अपि च पुनः पुनः तां बोधयन्त्यः आसन् ।
भावार्थ
उसके सन्निकट में अचेतन अवस्था में पड़े हुए दो वृद्ध पुरुष जोर-जोर से साँस ले रहे थे । वह तरुणी स्त्री उन दोनों की सेवा कर रही थी, कभी उन दोनों को जगाती थी, और कभी उनके आगे रोने लगती थी । वह अपने शरीर के रक्षक परमात्मा को दशों दिशाओं मे देख रही थी । उसके चारों ओर सैकड़ो स्त्रियां पंखा झल रही थीं और बार-बार समझा रही थीं ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें