शुक्रवार, 6 मई 2022

1.41-43 एकोनविंशः पाठः। मां दृष्ट्वा विह्वला सा अब्रवीत्। भो भोः साधो क्षणं तिष्ठ। यदा भाग्यं भवेत्

1.41-43 एकोनविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। एकचत्वारिंशः द्विचत्वारिंशः त्रिचत्वारिंशः च श्लोकः। मां दृष्ट्वा विह्वला सा अब्रवीत्। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।


मां दृष्ट्वा विह्वला सा अब्रवीत्

दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् ।

मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वचः ।।1.41


भावार्थः

तान् सर्वान् दूरादेव दृष्ट्वा कौतूहलवशात् अहं तेषां समीपं गतवान् । सा युवती अपि मां दृष्ट्वा उत्थितवती अपि च अत्यन्तं व्याकुलतया माम् उक्तवती ।

भावार्थ

उन सब को दूर से ही देखकर कौतूहल वश मैं उनके सन्निकट में चला गया । वह युवती भी मुझे देखकर खड़ी हो गयी और अत्यन्त व्याकुलता पूर्वक कहने लगी ।

बालोवाच अर्थात् सा युवती उक्तवती

भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।

दर्शनं तव लोकस्य सर्वथाघहरं परम् ।।1.42

बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति ।

यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा ।।1.43

भावार्थः

भो महात्मन्!  क्षणं यावत् इह तिष्ठ मम चिन्ताम् अपि नाशय । भवतः दर्शनं तु संसारस्य सर्वाणि पापानि पूर्णरूपेण नाशयति । भवतः वचनैः मम दुःखस्य बहुधा शान्तिः भविष्यति । यदा मनुष्यस्य बहु अधिकं भाग्यं भवति तदा एव भवतः दर्शनं भवति ।

भावार्थ

हे महात्मन्! क्षण भर रुक जाइए और मेरी भी चिन्ता दूर कीजिए । आपका दर्शन तो संसार के सभी पापों को पूर्ण रूप से नष्ट कर देने वाला है । आपके वचनों से मेरे दुःख की बहुत शान्ति हो जाएगी । जब मनुष्य का बहुत बड़ा भाग्य होता है, तभी आपका दर्शन होता है ।


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive