गुरुवार, 12 मई 2022

1.44-46 विंशः पाठः। नारदमुनिः तां युवतीं किं पृष्टवान्? कासि त्वं काविमौ चेमा? अहं भक्तिरिति ख्याता।

1.44-46 विंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। चतुश्चत्वारिंशः पञ्चचत्वारिंशः षट्चत्वारिंशः च श्लोकः। नारदमुनिः तां युवतीं किं पृष्टवान्? श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।

नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्

कासि त्वं काविमौ चेमा नार्यः काः पद्मलोचनाः ।

वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ।।1.44

भावार्थः

तत्पश्चात् अहं तां युवतीं पृष्टवान् – त्वं का असि? इमौ द्वौ पुरुषौ कौ? एताः कमलनयन्यः स्त्रियः काः? हे देवि! भवती स्वस्य दुःखस्य कारणं विस्तरेण कथयतु ।

भावार्थ

उसके पश्चात् मैंने उस स्त्री से पूछा - तुम कौन हो? ये दोनों पुरुष कौन हैं? और ये कमल के समान सुन्दर नेत्रों वाली स्त्रियाँ कौन हैं? हे देवि! आप अपने दुःख के कारण को विस्तार से बतलाओ ।

बालोवाच अर्थात् सा युवती उक्तवती

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।

ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ।।1.45

गङ्गाद्याः सरितश्चेमा मत्सेवार्थं समागताः ।

तथापि न च मे श्रेयः सेवितायाः सुरैरपि ।।1.46

भावार्थः

तत्पश्चात् सा युवती उक्तवती – अहं भक्तिनाम्ना प्रसिद्धा अस्मि । एतौ द्वौ समयस्य विपरीतत्वात् जर्जरौ मम ज्ञानवैराग्यनामकौ पुत्रौ स्तः । एताः देव्यः गङ्गाद्याः नद्यः सन्ति । एताः सर्वाः मम सेवार्थम् एव समागताः सन्ति । इत्येवं प्रकारेण साक्षात् एताभिः देवताभिः सेवितायाः अपि मम सुखं शान्तिश्च न वर्तते ।

भावार्थ

तब उस युवती ने कहा – मैं भक्ति के नाम से प्रसिद्ध हूँ । ये दोनों समय के विपरीत होने कारण जर्जर हुए मेरे ज्ञान और वैराग्य नामक पुत्र हैं । ये देवियाँ गङ्गा आदि नदियाँ हैं । ये सब मेरी सेवा करने के लिए ही आयी हैं । इस प्रकार साक्षात् इन देवियों के द्वारा सेवित होने पर भी मुझे सुख-शान्ति नहीं है ।

 



1 टिप्पणी:

  1. उत्तमः प्रयत्नः महोदय! अत्रापि पदच्छेदः, पदपरिचयः, अन्वयः योजयति चेत् इतोपि आकर्षणीयः भवति मादृशानां जनानां कृते। नमो नमः।

    जवाब देंहटाएं

Blog Archive