1.47-50 एकविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। सप्तचत्वारिंशः अष्टचत्वारिंशः एकोनपञ्चाशतमः पञ्चाशतमः च श्लोकः। सा युवती देवर्षिं नारदं कथयति। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
सा युवती देवर्षिं नारदं कथयति
इदानीं शृणु मद्वार्तां सचित्तस्त्वं तपोधन ।
वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ।।1.47
उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता ।
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।।1.48
भावार्थः
हे तपोधन! भवान् सावधानतया मम वृत्तान्तं शृणोतु । मम वृत्तान्तं विस्तृतम् अपि वर्तते । तत् श्रुत्वा भवान् मम सुखम् आवहतु । अहं द्रविडदेशे उत्पन्ना अभवम्, कर्णाटकदेशे सम्मानिता अभवम्, अपि च क्वचित् क्वचित् महाराष्ट्रे अपि सम्मानिता अभवम् । किन्तु गुर्जरं गत्वा अहं वृद्धा अभवम् ।
भावार्थ
हे तपोधन! आप सावधानी पूर्वक मेरा वृत्तान्त सुनिए। मेरा वृत्तान्त विस्तृत भी है उसको सुनकर आप मुझे सुख प्रदान कीजिए । मैं द्रविड देश में उत्पन्न हुयी, कर्णाटक देश में सम्मानित हुयी और कहीं-कहीं महाराष्ट्र में भी सम्मानित हुयी । किन्तु मैं गुजरात जाकर बूढ़ी हो गयी ।
पुनरपि सा युवती देवर्षिं नारदं कथयति
तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गका ।
दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम् ।।1.49
वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।
जाताहं युवती सम्यक्प्रेष्ठरूपा तु साम्प्रतम् ।।1.50
भावार्थः
तत्र दारुणस्य कलेः प्रभावात् पाखण्डिनः मम अङ्गानि भग्नानि कृतवन्तः । दीर्घकालं यावत् स्वपुत्रैः सह दुर्बला जायमाना अहं मन्दा अभवम् । पुनः वृन्दावनं प्राप्य इदानीं नवीना सुरूपिणी इव सम्यग्रूपेण कमनीया रूपवती युवती जाता अस्मि ।
भावार्थ
वहाँ पर दारुण कलि के प्रभाव से पाखण्डियों ने मेरा अङ्ग भग्न कर दिया । दीर्घकाल तक अपने पुत्रों के साथ दुर्बल बनी हुयी मैं मन्द हो गयी । पुनः वृन्दावन आकर इस समय नवीन सुरूपिणी के समान अच्छी तरह से कमनीय रूप वाली युवती हो गयी हूँ ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें