शुक्रवार, 27 मई 2022

1.51-54 द्वाविंशः पाठः। सा युवती देवर्षिं नारदं स्वस्य दुःखं कथयति। इमौ तु शयितावत्र। घटते जरठा माता

1.51-54 द्वाविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। एकपञ्चाशत्तमः द्विपञ्चाशत्तमः त्रिपञ्चाशत्तमः चतुःपञ्चाशत्तमः च श्लोकः। सा युवती देवर्षिं नारदं स्वस्य दुःखं कथयति। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।


 

सा युवती देवर्षिं नारदं स्वस्य दुःखं कथयति

इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात् ।

इदं स्थानं परित्यज्य विदेशं गम्यते मया ।।1.51

जरठत्वं समायातौ तेन दुःखेन दुःखिता ।

साहं तु तरुणी कस्मात्सुतौ वृद्धाविमौ कुतः ।।1.52

भावार्थः

किन्तु एतौ द्वौ मम पुत्रौ श्रमात् दुःखितौ भूत्वा अत्र शयितौ स्तः । अहम् एतत् स्थानं परित्यज्य अन्यत्र गन्तुम् इच्छामि । एतौ द्वौ मम पुत्रौ वृद्धौ जातौ स्तः, एतेन दुःखेन अहं दुःखिता अस्मि । अहं तरुणी कथं जाता अस्मि? मम पुत्रौ वृद्धौ कथं जातौ स्तः?

भावार्थ

किन्तु ये दोनों मेरे पुत्र यहाँ पर श्रम के कारण दुःखी होकर सो रहे हैं, मैं इस स्थान को छोड़कर अन्यत्र जाना चाहती हूँ । ये दोनों मेरे पुत्र बूढ़े हो गये हैं, इसी दुःख से मैं दुःखी हूँ । मैं तरुणी क्यों हो गयी हूँ? और ये दोनों बूढ़े क्यों हो गये हैं?

सा युवती देवर्षिं नारदं स्वस्य दुःखस्य कारणं कथयति

त्रयाणां सहचारित्वाद्वैपरीत्यं कुतः स्थितम् ।

घटते जरठा माता तरुणौ तनयाविति ।।1.53

अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।

वद योगनिधे धीमन् कारणं चात्र किं भवेत् ।।1.54

भावार्थः

वयं त्रयः अपि एकसार्धं भवामः तथापि एवं प्रकारेण विपरीतता कथम् आगता? वस्तुतस्तु माता वृद्धा पुत्राश्च युवकाः भवेयुः । किन्तु अत्र तु विपरीतम् एव भवति । अत एव आश्चर्यचकितमानसा अहम् निज-अवस्थाविषये चिन्तयन्ती अस्मि । हे योगनिधे! हे धीमन्! एतस्य किं कारणं भवितुम् अर्हति? कृपया भवान् एव एतत् कथयतु ।

भावार्थ

हम तीनों एक साथ रहने वाले हैं, फिर भी इस प्रकार की विपरीतता कैसे आ गयी? वस्तुतः माता को बूढी और पुत्रों को युवक होना चाहिए । किन्तु यहाँ तो विपरीत ही हो रहा है । इसीलिए मैं आश्चर्य चकित मन से अपनी अवस्था के विषय में सोचती हूँ । हे योगनिधे! हे धीमन्! इसका क्या कारण हो सकता है? कृपया आप ही इसे बतलाइये ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive