1.55-58 त्रयोविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। पञ्चपञ्चाशत्तमः षट्पञ्चाशत्ततः सप्तपञ्चाशत्तमः अष्टपञ्चाशत्तमः च श्लोकः। देवर्षिः नारदः एकस्मिन्नेव क्षणे तस्य कारणं विज्ञाय उक्तवान्।
नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्
ज्ञानेनात्मनि पश्यामि सर्वमेतत्तवानघे ।
न विषादस्त्वया कार्यो हरिः शं ते करिष्यति ।।1.55
सूत उवाच अर्थात् सूतमहर्षिः उक्तवान्
क्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः ।। 1.56
भावार्थः
हे निष्पापदेवि! अहं स्वस्य मनसि ज्ञानदृष्टिद्वारा तव सम्पूर्णस्य दुःखस्य कारणविषये विचारं करोमि, त्वया अवसादः न करणीयः । श्रीहरिः तव कल्याणं करिष्यति । देवर्षिः नारदः एकस्मिन्नेव क्षणे तस्य कारणं विज्ञाय उक्तवान् ।
भावार्थ
हे निष्पाप देवि! मैं अपने मन में ज्ञानदृष्टि के द्वारा तुम्हारे सम्पूर्ण दुःख के कारण का विचार कर रहा हूँ, तुम्हें विषाद नहीं करना चाहिए । श्रीहरि तुम्हारा कल्याण करेंगे । देवर्षि नारदजी ने एक क्षण में ही उसका कारण जानकर कहा ।
नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्
शृणुष्वावहिता बाले युगोऽयं दारुणः कलिः ।
तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ।।1.57
जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः ।
इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यसाधवः ।
धत्ते धैर्यं तु यो धीमान् स धीर: पण्डितोऽथवा ।।1.58
भावार्थः
हे देवि! भवती सावधानतया शृणोतु । एषः भयङ्करः कलियुगः अस्ति । एतेन एव कारणेन अस्मिन् समये सदाचारः योगमार्गः तपांसि च, एतानि सर्वाणि लुप्तानि जातानि । अस्मिन् समये शठताकर्मकारिणः दुष्कर्मकारिणः च जनाः अघासुराः जाताः सन्ति । अस्मिन् समये सज्जनाः पुरुषाः कष्टस्य अनुभवं कुर्वन्ति । अपि च दुष्टाः सुखिनः सन्ति । अस्मिन् कलिकाले यः बुद्धिमान् पुरुषः धैर्यं धारयति सः एव ज्ञानी अथवा पण्डितः अस्ति ।
भावार्थ
हे देवि! आप सावधानी से सुनें । यह भयङ्कर कलियुग है । इसी के कारण इस समय सदाचार योगमार्ग और तप ये सब के सब लुप्त हो गये हैं । इस समय शठता कर्म करने वाले तथा दुष्कर्म करने वाले अघासुर बन गये हैं । इस समय सज्जन पुरुष कष्ट का अनुभव करते हैं और दुष्ट सुखी हैं । इस कलिकाल में जो बुद्धिमान् पुरुष धैर्य धारण करता है वही ज्ञानी अथवा पण्डित है ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें