1.59-62 चतुर्विंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्।
माहात्म्यम्। प्रथमः अध्यायः। पञ्चपञ्चाशत्तमः षट्पञ्चाशत्तमः सप्तपञ्चाशत्तमः अष्टपञ्चाशत्तमः च श्लोकः।
धन्यं वृन्दावनं यत्र भक्तिः नृत्यति। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
अस्पृश्यानवलोक्येयं शेषभारकरी धरा ।
वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते ।।1.59
न त्वामपि सुतैः साकं कोऽपि पश्यति साम्प्रतम् ।
उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता ।। 1.60
भावार्थः
इयं पृथिवी
क्रमशः प्रतिवर्षं भगवतः शेषस्य कृते भाररूपा एव जायमाना अस्ति । इदानीं तु एषा
केवलं द्रष्टुम् एव अयोग्या न अपि तु स्प्रष्टुम् अपि अयोग्या जाता वर्तते, एवञ्च
अत्र कुत्रापि मङ्गलम् अपि न दृश्यते । अद्यत्वे पुत्रैः सह भवत्याः दर्शनम् अपि न
भवति । विषयेषु अनुरागकारणेन अन्धत्वं गतैः जीवैः उपेक्षिता भूत्वा भवती जर्जरा
जाता आसीत् ।
भावार्थ
यह पृथिवी
क्रमशः प्रत्येक वर्ष शेषजी के लिए भाररूप होती जा रही है । अब यह देखने योग्य तो
क्या स्पर्श करने योग्य भी नहीं रह गयी है और न इसमें कहीं मङ्गल ही दिखायी देता
है । अब किसी को पुत्रों के साथ तुम्हारा दर्शन भी नहीं होता है । विषयों के प्रति
अनुराग होने के कारण अन्धे बने हुए जीवों से उपेक्षित होकर तुम जर्जर हो गयी थी ।
वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा ।
धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ।।1.61
अत्रेमौ ग्राहकाभावान्न जरामपि मुञ्चतः ।
किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः ।।1.62
भावार्थः
वृन्दावनस्य संयोगात् भवती पुनः नवयुवती जाता अस्ति । अतः एतत् वृन्दावनं धाम धन्यम् अस्ति, यत्र भक्तिः नृत्यति । किन्तु भवत्याः एतयोः पुत्रयोः अत्र कश्चिदपि ग्राहकः नास्ति इत्यतः एतौ स्वस्य वृद्धावस्थां न परित्यजतः । अत्र किञ्चित् आत्मसुखस्य लाभकारणेन एतौ सुप्तौ इव प्रतीयमानौ स्तः ।
भावार्थ
वृन्दावन के संयोग से तुम फिर नव युवती हो गयी हो । अतः यह वृन्दावन धाम धन्य है, जहाँ भक्ति नृत्य करती है । किन्तु तुम्हारे इन दोनों पुत्रों का यहाँ कोई ग्राहक नहीं है, इसलिए ये दोनों अपने बुढ़ापे का परित्याग नहीं कर रहे हैं । यहाँ कुछ आत्मसुख मिलने के कारण ये दोनों सोते हुए के समान प्रतीत हो रहे हैं ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें