रविवार, 26 जून 2022

1.63-66 पञ्चविंशः पाठः। करुणापरेण हरिणा अधर्मः कथमीक्ष्यते? यदि पृष्टस्त्वया बाले। यदा मुकुन्दो।

1.63-66 पञ्चविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। त्रिषष्टितमः चतुःषष्टितमः पञ्चषष्टितमः षट्षष्टितममः च श्लोकः। करुणापरेण हरिणा अधर्मः कथमीक्ष्यते? श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।

भक्तिरुवाच अर्थात् देवी भक्तिः उक्तवती

कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः ।

प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान् ।।1.63

करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते ।

इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ।। 1.64

भावार्थः

राजा परीक्षित् एतम् अपवित्रं कलिं स्वस्य राज्ये कथं स्थापितवान्? कलौ प्रवृत्ते सति सर्वेषां वस्तूनां महान् सारः कुत्र गतः? करुणापरेण भगवता श्रीहरिणा अपि अयम् अधर्मः कथम् अवलोक्यते? हे महामुने! भवान् मम सन्देहं निवारयतु । भवतः वाणीं श्रुत्वा अहं सुखं प्राप्नोमि ।

भावार्थ

राजा परीक्षित् ने इस अपवित्र कलि को अपने राज्य में कैसे रहने दिया? कलि के आते ही सभी वस्तुओं का महान् सार कहाँ चला गया? करुणा करने वाले भगवान् श्रीहरि भी इस अधर्म को कैसे देखते हैं? हे महामुने! आप मेरे इस सन्देह को दूर करें । आपकी वाणी को सुनकर मुझे सुख की प्राप्ति हो रही है ।

नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।

सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ।।1.65

यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः ।

तद्दिनात्कलिरायातः सर्वसाधनबाधकः ।।1.66

भावार्थः

हे बाले! यदि भवत्या अहं पृष्टः तर्हि प्रेमपूर्वकं श्रवणं करोतु, अहं भवत्याः कृते सर्वं वदिष्यामि येन भवत्याः कष्टं दूरं गमिष्यति । यदा भुक्तेः मुक्तेश्च दाता भगवान् श्रीकृष्णः एतं भूलोकं त्यक्त्वा स्वस्य परमधाम गतवान् तस्मात् एव दिनात् सर्वेषां साधनानां बाधकः कलिः अत्र आगतवान् ।

भावार्थ

हे बाले! यदि तुमने मुझसे पूँछा है तो प्रेमपूर्वक सुनो, मैं तुम्हें सारी बातों को बताऊँगा जिससे तुम्हारा कष्ट दूर हो जायेगा । जब भुक्ति एवं मुक्ति के दाता भगवान् श्रीकृष्ण इस भूलोक को छोड़कर अपने परम धाम चले गये उसी दिन से सभी साधनों को बाधित करने वाला कलि यहाँ पर आ गया ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive