1.67-70 षड्विंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। सप्तषष्टितमः अष्टषष्टितमः एकोनसप्ततितमः सप्ततितमः च श्लोकः। राजा परीक्षित् किमर्थं कलिं न मारितवान्? श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
यत्फलं नास्ति तपसा न योगेन समाधिना ।
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ।। 1.68
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ।
न मया मारणीयोऽयं सारङ्ग इव सारभुक् ।।1.67
भावार्थः
दिग्विजयसमये यदा राजा परीक्षित् कलिं दृष्टवान् तदा सः दीनः इव राज्ञः शरणं गतवान् । एतत् दृष्ट्वा राजा परीक्षित् निश्चयं कृतवान् यत् मया एतस्य वधः न करणीयः यतोहि सः राजा भ्रमरः इव सारग्राही आसीत् । सः जानाति स्म यत् शरणागतस्य रक्षणं सर्वश्रेष्ठः धर्मः अस्ति । यत् फलं तपस्याद्वारा योगद्वारा समाधिद्वारा च न प्राप्यते तत् फलं मनुष्यः कलियुगे सम्यक्तया भगवतः श्रीहरेः कीर्तनं कृत्वा प्राप्नोति ।
भावार्थ
दिग्विजय करते समय राजा परीक्षित् ने जब कलि को देखा तो वह दीन के समान राजा के शरण में चला गया । यह देखकर राजा ने निश्चय किया कि मुझे इसका वध नहीं करना चाहिए क्योंकि वे राजा भ्रमर के समान सारग्राही थे । वे जानते थे कि शरणागत की रक्षा करना सबसे बड़ा धर्म है । जिस फल की प्राप्ति तपस्या, योग और समाधि से नहीं हो पाती है उस फल को मनुष्य कलियुग में अच्छी तरह से भगवान् श्रीहरि का कीर्तन करके प्राप्त कर लेता है ।
एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।
विष्णुरातः स्थापितवान् कलिजानां सुखाय च ।।1.69
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ।
पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ।।1.70
भावार्थः
एवं प्रकारेण सारहीने सत्यपि कलिम् एकया एव दृष्ट्या सारयुक्तं दृष्ट्वा राजा परीक्षित् कलियुगस्य मानवानां सुखाय तं स्थापितवान् । इदानीं जनाः कुकर्माचरणे प्रवृत्ताः सन्ति इति हेतोः सर्वेषां वस्तूनां सारः निर्गतः । पृथिव्यां सर्वे पदार्थाः बीजहीनाः तुषाः इव सञ्जाताः सन्ति ।
भावार्थ
इस प्रकार सारहीन होने पर भी कलि को एक ही दृष्टि से सारयुक्त देखकर राजा परीक्षित् ने कलियुग के मनुष्यों को सुख देने के लिए कलि को स्थापित कर दिया । इस समय लोगों के कुकर्म में प्रवृत्त होने के कारण सभी वस्तुओं का सार निकल गया है । पृथिवी पर सभी पदार्थ बीजहीन भूसी के समान पड़े हुए हैं ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें