1.71-74 सप्तविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। एकसप्ततितमः द्विसप्ततितमः त्रिसप्ततितमः चतुस्सप्ततितमः च श्लोकः। विप्रैः कणलोभेन गेहे गेहे भागवती वार्ता कारिता अतः कथासारः गतः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।
कारिता कणलोभेन कथासारस्ततो गतः ।।1.71
अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।
तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ।। 1.72
भावार्थः
ब्राह्मणाः अन्नधनादिलोभवशात् प्रत्येकं गृहे एवञ्च प्रत्येकं जनं श्रीमद्भागवतस्य कथां श्रावयन्ति इति कारणेन कथायाः सारः गतः । ये पुरुषाः नानाविधानि उग्रकर्माणि कुर्वन्ति, ये नास्तिकाः नारकिणः च सन्ति ते अपि तीर्थेषु निवसन्ति अतः तीर्थानां सारः गतः ।
भावार्थ
ब्राह्मण अन्न धनादि के लोभवश प्रत्येक गृहों में तथा प्रत्येक लोगों को श्रीमद्भागवत की कथा को सुनाते हैं, इस कारण कथा का सार चला गया । जो पुरुष नाना प्रकार के घोर कर्म करते हैं, जो नास्तिक और नारकी हैं वे भी तीर्थों में रहने लगे हैं, इसलिए तीर्थों का सार चला गया ।
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः।
तेऽपि तिष्ठन्ति तपसि तप:सारस्ततो गतः ।।1.73
मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात् ।
शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ।।1.74
भावार्थः
येषां चित्तं कामेन क्रोधेन महालोभेन तृष्णया च व्याकुलं वर्तते ते अपि तपस्यायाः पाखण्डं कुर्वन्ति अतः तपस्यायाः सारः गतः । मनसि नियन्त्रणं नास्ति इति कारणेन तथा च लोभस्य दम्भस्य पाखण्डस्य च आश्रयकारणेन एवञ्च शास्त्राणाम् अनभ्यासकारणात् ध्यानस्य योगस्य च फलं गतम् ।
भावार्थ
जिनका चित्त काम, क्रोध, महालोभ, और तृष्णा से व्याकुल रहता है, वे भी तपस्या का ढोंग करते हैं इसलिए तपस्या का सार चला गया । मन पर नियन्त्रण न होने के कारण तथा लोभ, दम्भ और पाखण्ड का आश्रय लेने के कारण एवं शास्त्रों का अभ्यास न करने के कारण ध्यान और योग का फल चला गया ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें