रविवार, 17 जुलाई 2022

1.75-78 अष्टाविंशः पाठः। पण्डितास्तु कलत्रेण। रमन्ते महिषा इव। न हि वैष्णवता कुत्र। अयं तु युगधर्मो

1.75-78 अष्टाविंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। पञ्चसप्ततितमः षट्सप्ततितमः सप्तसप्ततितमः अष्टसप्ततितमः च श्लोकः। पण्डिताः मुक्तिसाधने कथम् अदक्षाः अभवन्? निकटे स्थितः भगवान् पुण्डरीकाक्षः किमर्थं सहते?

 

पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।

पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ।।1.75

न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा ।

एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ।।1.76

भावार्थः

पण्डिताः स्वपत्न्या सह महिषाः इव रमणं कुर्वन्ति, ते पुत्राणाम् उत्पादने तु निपुणाः सन्ति किन्तु मुक्तेः साधने पूर्णतया असमर्थाः सन्ति । सम्प्रदायपुरोगमा वैष्णवता कुत्रापि न दृश्यते, एवं प्रकारेण सर्वेषां वस्तूनां सारः विनष्टः अभवत् ।

भावार्थ

पण्डित जन अपनी पत्नियों के साथ भैंसों की तरह रमण करते हैं, वे पुत्रों को उत्पन्न करने में तो निपुण हैं किन्तु मुक्ति के साधन में पूर्णरूप से असमर्थ हैं । सम्प्रदाय के अनुसार आने वाली वैष्णवता कहीं भी दिखायी नहीं देती है, इस तरह से सभी वस्तुओं का सार विनष्ट हो गया है ।

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।

अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ।।1.77

सूत उवाच अर्थात् सूतमहर्षिः उक्तवान्

इति तद्वचनं श्रुत्वा विस्मयं परमं गता ।

भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ।।1.78

भावार्थः

एषः तु युगस्य स्वभावः एव अस्ति, अत्र कस्यचित् अपि दोषः नास्ति, अत एव समीपे विद्यमानः भूत्वा अपि भगवान् पुण्डरीकाक्षः एतत् सर्वं सहते । देवर्षेः नारदस्य तत् वचनं श्रुत्वा देवी भक्तिः अत्यन्तम् आश्चर्यम् अनुभूतवती, तत्पश्चात् सा यत् उक्तवती हे शौनकमहर्षे! भवान् तत् शृणोतु ।

भावार्थ

यह युग का स्वभाव ही है, इसमें किसी का दोष नहीं है, इसीलिए समीप में विद्यमान रहकर भी भगवान् पुण्डरीकाक्ष यह सब सह रहे हैं । देवर्षि नारदजी की उस वाणी को सुनकर देवी भक्ति को अत्यन्त आश्चर्य हुआ, उसके पश्चात् उसने जो कहा हे शौनकजी! आप उसे सुनिये ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive