रविवार, 24 जुलाई 2022

1.79-80 एकोनत्रिंशः पाठः। सुरर्षे त्वं हि धन्योऽसि। साधूनां दर्शनं लोके। जयति जगति मायां। सकलकुशलपात्रं।

1.79-80 एकोनत्रिंशः पाठः। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। प्रथमः अध्यायः। एकोनाशीतितमः अशीतितमः च श्लोकः। साधूनां दर्शनं सर्वसिद्धिकरम्। कथं कायाधवः जगति मायां जयति? श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।


भक्तिरुवाच अर्थात् देवी भक्तिः उक्तवती

सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः ।

साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ।।1.79

भावार्थः

हे देवर्षे! भवान् धन्यः अस्ति! मम परमसौभाग्यकारणेन भवान् समागतः अस्ति । संसारे साधुपुरुषाणां दर्शनं परमं कल्याणकारकम् अस्ति ।

भावार्थ

हे देवर्षे! आप धन्य हैं! मेरे परम सौभाग्य के कारण आप आए हुए हैं । संसार में साधु पुरुषों का दर्शन सभी सिद्धियों का परम कारण है ।

जयति जगति मायां यस्य कायाधवस्ते

वचनरचनमेकं केवलं चाकलय्य ।

ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं

सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ।।1.80

भावार्थः

यस्य भवतः केवलम् एकम् एव उपदेशं धारयित्वा कयाधूपुत्रः प्रह्लादः संसारे मायायाः उपरि विजयं प्राप्तवान् आसीत् । ध्रुवः अपि भवतः एव कृपया ध्रुवपदं प्राप्तवान् आसीत् । भवान् सर्वमङ्गलमयः ब्रह्मदेवस्य पुत्रः च वर्तते । अहं भवन्तं नमस्करोमि ।

भावार्थ

जिस आपके केवल एक ही उपदेश को धारण करके कयाधू के पुत्र प्रह्लाद ने संसार में माया पर विजय प्राप्त कर लिया था । ध्रुव ने भी आपकी ही कृपा से ध्रुव पद को प्राप्त किया था । आप सर्वमङ्गलमय और ब्रह्माजी के पुत्र हैं, मैं आपको नमस्कार करती हूँ ।

 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Blog Archive