2.1-4 प्रथमः पाठः। वृथा खेदयसे बाले। श्रीकृष्णचरणाम्भोजं स्मर। द्रौपदी च परित्राता। त्वं तु भक्तिः प्रिया तस्य। सत्यादित्रियुगे। श्रीमद्भागवतमहापुराणस्य सम्पूर्णम् अध्ययनम्। माहात्म्यम्। द्वितीयः अध्यायः। प्रथमः द्वितीयः तृतीयः चतुर्थः च श्लोकः। श्रीमद्भागवतकथा। श्रीकृष्णकथा। माहात्म्यकथा।
नारद उवाच अर्थात् देवर्षिः नारदः उक्तवान्
वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।
श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ।।2.1
द्रौपदी च परित्राता येन कौरवकश्मलात् ।
पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ।।2.2
भावार्थः
हे देवि! त्वं व्यर्थम् एव कष्टस्य अनुभवं करोषि, भगवतः श्रीकृष्णस्य चरणकमलयोः स्मरणं कुरु, तस्य कृपया तव सम्पूर्णं दुःखं दूरं गमिष्यति । येन कौरवाणाम् अत्याचारात् द्रौपद्याः रक्षा कृता, अपि च येन ताः गोपसुन्दर्यः पालिताः, सः भगवान् श्रीकृष्णः कुत्रापि न गतः ।
भावार्थ
हे देवि! तुम व्यर्थ ही कष्ट का अनुभव कर रही हो, भगवान् श्रीकृष्ण के चरणकमलों का स्मरण करो, उनकी कृपा से तुम्हारा सम्पूर्ण दुःख दूर हो जायेगा । जिन्होंने कौरवों के अत्याचार से द्रौपदी की रक्षा की तथा गोपियों को सनाथ किया, वे भगवान् श्रीकृष्ण कहीं नहीं गये हैं ।
त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।
त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ।।2.3
सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधकौ ।
कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ।।2.4
भावार्थः
त्वं तु भक्तिः असि, सदा तस्य प्राणेभ्यः अपि अधिका प्रिया असि, त्वया आहूतस्तु भगवान् नीचानां गृहेषु अपि गच्छति । सत्ययुगे त्रेतायुगे द्वापरयुगे च केवलं ज्ञानवैराग्यौ एव मुक्तिसाधकौ आस्ताम्, किन्तु कलियुगे केवला भक्तिः एव ब्रह्मसायुज्यकारिणी अर्थात् मोक्षदायिका वर्तते ।
भावार्थ
तुम तो भक्ति हो, सदा उन्हें प्राणों से भी अधिक प्रिय हो, तुम्हारे द्वारा बुलाये जाने पर तो भगवान् नीचों के घर में भी चले जाते हैं । सत्ययुग, त्रेतायुग एवं द्वापरयुग में तो ज्ञान और वैराग्य मुक्ति के साधन थे, किन्तु कलियुग में केवल भक्ति ही ब्रह्मसायुज्य कराने वाली अर्थात् मोक्ष को प्रदान करने वाली है ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें